പേജുകള്‍‌

TITLE

2012, ജൂലൈ 17, ചൊവ്വാഴ്ച

काञ्चनमाला।

काञ्चनमाला।

वार्त ..........


प्रथमकक्ष्यायाः आरभ्य संस्कृतं पाठयेत् - ओ राजगोपाल् (पूर्वकेन्द्रमन्त्री)

तिरुवनन्तपुरम् - प्रथमकक्ष्यायाः आरभ्य संस्कृतपठनम् अवश्यं भवेदिति ओ राजगोपालः, केरलसंसकृताध्यापकफेडरेषन् इत्यस्य एकस्मिन् सम्मेलने अवदत्। 
     पैतृकस्य ज्ञानाय संस्कृतपठनम् अनिवार्यम्। तस्याभावे सर्वं व्यर्थमेव। बाल्ये संस्कृतं पठितुं न शक्तवानिति दुःखम् अनुभवामि। शिक्षाक्षेत्रस्य नेतारः संस्कृतज्ञाः स्युः । प्राक्कालादारभ्य बहवः महज्जनाः संस्कृतपठनस्य आवश्यकतां समाजे बोधयन्तः सन्ति। किन्तु तत्तत्कालीनाः सर्वकाराः तद्विषये कमपि निर्णयम् अद्यावधि न पारितवन्तः इति तु दःखसत्यम्।
     केरलीयविद्यालयेषु प्राथमिकतले संस्कृतशिक्षणं भवेदिति कृत्वा आयोजिते आन्दोलनात्मके सम्मेलने उद्घाटभाषणं कुर्वन्नासीत् श्री राजगोपालः। सम्मेलनेsस्मिन्  के. प्रदीप्कुमार् अध्यक्षभाषणमकरोत्।  टि.के सन्तोष्कुमार्,  एम्. एस्. शर्मा, पि.जि. अजित्प्रसाद्, सुरेन्द्रन् कटक्कोट्, आर् मुरलीधरन्, इ.एन्. ईश्वरन् प्रभृतयः अन्यप्रभाषकाः आसन्। श्री रिन्स् वर्गीस् कृतज्ञताभाषणमकरोत्।

पुस्ताकानि